Wednesday 16 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् । लेखः १५. कर्णाटक्षोण्याः पुरुषसिंहः - क्रान्तिवीरः सङ्गोळिरायण्णः ।


स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् ।
लेखः १५. कर्णाटक्षोण्याः पुरुषसिंहः - क्रान्तिवीरः सङ्गोळिरायण्णः ।

१८५७तमे वर्षे सञ्जातात् प्रथमस्वातन्त्र्यसङ्ग्रामात् पूर्वमेव आङ्ग्लसाम्राज्यस्य हृदये समुत्पादितवेपथुः, महासमराय कृतशङ्खनादश्च वर्तते कर्णाटक्षोण्याः पुरुषसिंहः सङ्गोळ्ळिरायण्णः । अस्य जननम् आगस्ट्-मासस्य १५ दिनाङ्के । बलिदानं तु जनवरीमासस्य २६ दिनाङ्के । अनयोरेकं स्वातन्त्र्यदिनम् अपरं तु गणराज्यदिनम् इति कृत्वा वैशिष्ट्यम् आवहति । बहूनाम् अज्ञातं चास्ति इदं वैशिष्ट्यम् । आङ्ग्लेयानां सार्वभौमतां धिक्कृत्य समराय सज्जीभूतायाः कित्तूरुराज्ञ्याः जेन्नम्मायाः विश्वसनीयोऽनुयायी समासीद् एष रायण्णः । यदा तु आङ्ग्लेयानां वञ्चनानैपुण्येन चेन्नम्मा बन्दीभूता तदा असावेव धीराग्रणीः समरम् अनुवर्तयन् तेषु भीतिम् अक्षुण्णाम् अकरोत् ।

केवलं द्वात्रिंशतं वर्षाणि जीवितस्यास्य महच्चरितं सर्वेषां प्रेरणादायि । चेन्नम्मायाः सैन्यस्य नेतृत्वं वहन्नेष रायण्णः राष्ट्रभक्तानां महान्तं गणं सज्जमकरोत् । गेरिल्लानामके युद्धविशेषेऽपि निपुणोऽयं चेन्नम्मासैन्यस्य प्रथमे आङ्ग्लानां परिभावने महत् पात्रं निरवहत् । किन्तु यदा चेन्नम्मा बन्दीभूता ततः परम् आङ्ग्लेयानां दुष्कृत्यानि निर्मर्यादान्यासन् । निर्धनेभ्यः भूमेः अधिकस्य करस्य वा बलादादानं तेषां नित्यकर्म सञ्जातम् । किन्तु, तान् विरुद्ध्य स्थितोऽयं रायण्णो राष्ट्रभक्तानां महती चमूं निबबन्ध । निजेन गेरिल्लायुद्धेन आङ्ग्लेयान् तत्पक्षपातिनो भूस्वामिनश्च परिभाव्य तेभ्यो धनभूम्यादिकम् आदाय च पुनरपि दरिद्रेभ्यो वितरति स्म । अस्य निग्रहार्थम् आगता महती आङ्ग्लसेनापि पराजयैकफला संवृत्ता । किन्तु, किं कुर्यात् स दुर्दैवी यदा स्वजन एव शत्रुनिघ्नो भवति ! सत्यम् ! आङ्ग्लेयैः प्रलोभनेन वशीकृतः रायण्णस्य मातुल एव अस्य बन्धनम् अकारयत् । अन्ते च सः, १८३१, जनवरी २६ दिनाङ्के बेळगाविजनपदस्य नन्दगडग्रामे मृत्युस्तम्भम् आरोपितः । कस्तावदन्तिमऽभिलाषः ? इति आङ्ग्लेयैस्तदा पृष्टः सन् जगर्ज – ’पुनरपि भारत एव जन्म सम्प्राप्य एतं देशं पीडयत आङ्ग्लेयान् पराजयेय निवर्तयेय च । प्रतिगृहं शतशः सङ्गोळ्ळिरायण्णाः जन्म प्राप्नुयुः ।’ इति ।

रायण्णस्य मरनाद् अनन्तरं तस्य प्रियानुचरः कत्तिचन्नबसवण्णः तदन्त्यसंस्कारं प्रति वेषान्तरेण गत्वा तत्स्थाने वटम् आरोपयामास । तदधुना महावटवृक्षतां प्राप्य पवित्रस्थानं सञ्जातमस्ति । साम्प्रतमपि परःसहस्रा जनाः तत्र गत्वा तं वृक्षम् अर्चित्वा च रायण्णाय गौरवं समर्पयन्ति । तदीयाः वीरगाथाः बहुभिः जानपदगीतैरपि जेगीयन्ते ।

ह्यः तदीयं जन्मदिनम् । यद्यपि ह्य एव अस्मिन् विषये लेखः प्रकाश्यः आसीत् । किञ्च नाशकवम् ।

इमां लेखनमालिकाम् अपि अत्रैव उपसंहरन्नस्मि । यद्यपि आर्येण रामचन्द्रहेगडेवर्येण परुत् समग्रे मासे ये ३१ वीराः स्मारिताः ते सर्वेऽपि पुनः स्मार्या इति मया सङ्कल्पितमासीत् । किन्तु अनिवार्यैः कारणैः अत्रैव उपसंहरन्नस्मि, एषु दिवसेषु केचन विक्रमविभवाः समर्पितसर्वस्वाः राष्ट्रभक्ताश्च स्मृताः इति कृतकृत्यभावेन । भारताम्बार्पणमस्तु । सर्वेभ्यो धन्यवादाः ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।

संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

Tuesday 15 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् । लेखः १४. तमिळुभूमेः स्मरणीयसत्त्वः – वीरपाण्ड्यः कट्टबोम्मन् ।


स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् ।
लेखः १४. तमिळुभूमेः स्मरणीयसत्त्वः – वीरपाण्ड्यः कट्टबोम्मन्

ईस्ट् इण्डिया कम्पनी भारतं समागत्य मन्दमन्दं यदात्र स्वमाधिपत्यं प्रतिष्ठापयति स्म तदैव तान् स्वरूपतो विज्ञाय विरुद्धवत्सु, तेषां निवर्तनाय प्रयत्तवत्सु च अन्यतमो वर्तते मातृभूमेर्महान् आराधको वीरपाण्ड्यः कट्टबोम्मन् । यदा आङ्ग्लेयाः भारते स्वस्थानं दृढम् अकार्षुः ततः क्रमेण अल्पबलान् राज्ञः पीडयन्तः, तेभ्योऽधिकं करम् आददानाश्च स्वमाधिपत्यं प्रवर्धयन्ति स्म । तदीयं बलं सोढुम् अनीशा बहवो राजानस्तदधीनशासनाः सञ्जाताः । किन्तु साम्प्रतिकस्य तमिळुनाडुराज्यस्य पाञ्चालङ्कुरुच्चिप्रान्तस्य कश्चिद्धीरस्तदिदं पराधीनत्वं न मनागपि ऊरीचकार, यश्च वर्तते वीरपाण्ड्यः कट्टबोम्मन् । तस्मिन् काले तस्य प्रान्तस्य आङ्ग्लेयाधिकारी आसीत् म्याक्स्वेल् इत्याख्यः । तेन करार्पणार्थम् असकृत् कृतमपि आदेशं धिक्चकार वीरपाण्ड्यः । ’करो न दत्तश्चेद् योद्धव्यम्’ इति भाययितुं यतमानं तं सधैर्यं प्रत्युवाच वीरपाण्ढ्यो यथा – ’पुत्राः स्मो वयं भूमिदेव्याः । अस्या गौरवाय प्राणान् अपि दद्याम न तु विदेशीयेभ्यः करम् ।’ इति ।

इत्थम् आह्वयमानं वीरपाण्ड्यं परिभावयितुम् आचक्राम महत् सैन्यम् आङ्ग्लेयानाम् । १७९२तः १७९८पर्यन्तं षड् वर्षाणि प्रावृत्तं प्रधनम् । अनेन युद्धेन हानिरेव नः इति उपदिशतः स्वजनान् ’पराधीनत्वं न जात्वङ्गीकार्यम्’ इति धीरैर्वचोभिः स्वयं प्रतिबोधयामास वीरपाण्ड्यः । इत्थं जाज्वल्यमानम् अनलम् इव तं सोढुम् अशक्नुवन्त आङ्ग्लेयाः कौटिल्येन सन्धानाय आह्वयन् । तदिदं कौटिल्यं जानन् वीरपाण्ड्यः तत्र यात्वा बन्दीकर्तुम् ईहमानम् आङ्ग्लाधिकारिणम् एव हत्वा प्रत्यायातः ।

१७९९तमे वर्षे सेप्टेम्बर् ५ दिनाङ्के ब्रिटिष्सैन्यं पाञ्चालङ्कुरुच्चेरुपरि पुनरप्याचक्राम । बलिष्ठया तया सेनया नियुद्ध्य पराजीयमानो वीरपाण्ड्यो बलं सञ्चित्य पुनर्योत्स्ये इति निश्चित्य ततः पलायितः । किन्तु आङ्ग्लेयाः कुतन्त्रेण तस्य कञ्चित् सुहृदं प्रभूतेन वित्तेन प्रलोभ्य ततस्तदीयं बन्धनम् अकारयन् । सन्निहितम् अपि मरणम् अपरिगणयन् आङ्ग्लान् उद्दिश्य वीरपाण्ड्यो जगर्ज – ’अन्याय्येनास्मदीयां मेदिनीं वशीकृतवतां भवताम् इतो निवर्तनम् अचिरादेव भविता । नाहं युष्मद्वशवर्ती भविष्यामि । तदनुष्ठीयतां यथेष्टम् ।’ इति । एवम् अनवनतशिरस्कः सः तदनुयायिनश्च १७९९, अक्टोबर् षोडशे दिनाङ्के सर्वसम्मुखे पाशम् आरोपिताः ।

इत्थम् आङ्ग्लशासनस्य अवसानं मातृभूमेः स्वतन्त्रतां च अभिलषन् तदर्थं प्राणानपि समर्पयन् वीरपाण्ड्यः कट्टबोम्मन् पश्चात् सम्भूतस्य महास्वातन्त्र्यसमरस्य आमुखम् अलिखत् । तदीयोऽभिलाषः सम्प्रति साकारतां सम्प्राप्तोऽस्ति । किन्तु, तस्य तादृशानां बहूनां योधानां च स्मृतिः प्रायेण विलुप्तास्ति ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।

संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

Sunday 13 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् । लेखः १३. पराक्रमपञ्चाननः अल्लूरी सीतारामराजुः ।


स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्
लेखः १३. पराक्रमपञ्चाननः अल्लूरी सीतारामराजुः

उत्तरतेलङ्गाणप्रान्तस्य अल्लूरी सीतारामराजुः कश्चिद् अनुपमः सेनानीः राष्ट्रभक्तश्च आसीद्, यो हि न केवलं स्वातन्त्र्ययोद्धा, अपि तु पर्वतादिस्थितानाम् आदिवासिकुलानां सामान्यमानवाधिकारलब्ध्यर्थम् इदम्प्रथमतया कृतप्रवृत्तिकः । अधुना बस्तार् नाम्ना व्यवह्रियमाणे आन्ध्र-ओरिस्सा-मध्यप्रदेशानां पर्यन्तभागेषु अभिव्याप्ते अरण्ये वसतः ’चेञ्चु’ इत्याख्यस्य पर्वतवासिकुलस्य स्थानमानसिद्धये युद्ध्वा आङ्ग्लेयैरमानुषेण विधिना व्यापादितोऽयं सीतारामराजुः १९२४ तमे वत्सरे । 

पिता महान् देशभक्त आसीदित्यतोऽस्य प्रथमो देशभक्तिपाठो गृहे एव सञ्जातः । बाल्ये कस्मिंश्चित् प्रसङ्गे आङ्ग्लेयाधिकारिणं नमस्कुर्वाणम् एनं पिता यदा दण्डयामास तदैव इतः परं न कोऽपि परकीयो नन्तव्य इति पाठोऽनेन शिक्षित आसीत् । माध्यमिकशिक्षाकाल एव क्रान्तिपथगामिनां सद्विचारैः प्रभावित एषः तदैव राष्ट्रस्य स्वातन्त्र्यार्थं कृतपरिकरबन्धः समभूत् । महाविद्यालयशिक्षणात् परं राष्ट्रं सञ्चरन् नैकेषां क्रान्तिवीराणां परिचयं प्राप्नोत् । यदा राष्ट्रपर्यटनं सम्पूर्णं तदा स्वकर्तव्यविषये तस्य धीर्निश्चिता आसीत् । संन्यासं स्वीकृत्य जनानां राष्ट्रस्य च सेवायै जीवनं विनियोजनीयमिति द्रढीयांसं सङ्कल्पं स कृत्वा नानाग्रन्थान् अध्यैत, धनुरादीर्विद्याः अशिक्षत च । तस्मिन्नेव समये आङ्ग्लेयैः आदिवासिनां प्रतिकूलतया कृतः कश्चन नियमः एतं तान् विरुद्ध्य सङ्ग्रामाय प्रावर्तयत् । आङ्ग्लेयान् प्रतिरोद्धुम् आदिवासिनः सङ्घटयन्नेषः तेषु स्थिताः नरबलिप्रमुखाः अहितपद्धतीः निवारयामास । तान् शिक्षितांश्चकार मद्यव्यसनतो मुमोच च । एवं नानावर्त्मभिः मन्यंनामके प्रदेशे स्थितं ’कोया’ ’चञ्चु’ चेत्येतदादिवासिकुलद्वयं रक्षन्नेषः तेषाम् आराध्यदेवतैव सञ्जातः । एतेषां हिताय अस्याग्रणीत्वे सञ्जातं महदान्दोलनं Rampa Rebellion इति नाम्ना सुप्रसिद्धमस्ति आन्ध्रेतिहासे । ब्रिटष्साम्राज्यस्य दुःशासनं दमयितुं महतीं सेनां सङ्घटयन्नेष तस्य निद्रानाशी सम्पन्नः । उपक्रमेऽस्मिन्ननेन नैके सहायाः सम्प्राप्ताः ये च पराक्रमेण पञ्चाननमप्यतिशेरते स्म । अनेन सङ्ग्रामेण बहवः पर्वतवासिनः स्वातन्त्र्यं लेभिरे, किन्तु बहवो मृतिम् उपगता अपि । अन्ततस्तमेनं न्याय्येन मार्गेण नियन्त्रयितुं न पारयेमेति विदित्वा सन्धानार्थमाहूय, कुटिलतया निबबन्धुः आङ्ग्लेयाः । बन्दीभूतं तं वृक्षे निबद्ध्य लुण्ठाक इति यदा गर्हयन्ति स्म आङ्ग्लेयाः तदैषः सरोषं ’छद्मना भारतस्य लुण्ठाका यूयमेव इति आक्रोशन्नुदजूगुषत् – ’युष्माभिरेको राजुर्बध्येत हन्येत वा । किन्तु न वन्ध्या मे भारतमाता । रत्नगर्भायाः तस्याः मादृक्षा वीरपुत्राः यदा शतश उत्पत्स्यन्ते तदा युष्माभिर्निर्गन्तव्यमेव भविष्यति’ इति । अन्ते चासौ १९२४तम वत्सरे मेमासस्य सप्तमे दिनाङ्के पञ्चतां प्रापितः ।

’सीतारामराजुः यद्यन्यस्मिन् कस्मिंश्चिद् देशे अभविष्यत् तर्हि इतोऽप्यतिशयितं गौरवम् अलप्स्यत’ इत्युक्तमस्ति नेताजी-सुभासचन्द्रबोस्-वर्येण । सत्यम्, न केवलं राजौ, बहुषु स्वातन्त्र्ययोद्धृषु समन्वेति वाणीयं येषां विषये राष्ट्रमिदं न पूर्णतया कृतज्ञभावम् आवहति । तदिदं महद् दौर्भाग्यं वर्तते अस्य राष्ट्रस्य ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।

संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

Saturday 12 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् । लेखः १२. विदेशीया वात्सल्यमूर्तिः सोदरी निवेदता ।



स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् ।
लेखः १२. विदेशीया वात्सल्यमूर्तिः सोदरी निवेदता ।

ऐर्लेण्ड्देशसञ्जाता चेदपि भारतस्य सेवायै स्वजीवनं समर्पितवत्याः मार्गरेट् एलिजबेत् नोबेल् इत्यस्याः सच्चरितं सर्वविदितम् । सेऽयं स्वामिनो विवेकानन्दस्य भाषणबोधनादिभिः प्रभाविता सती, तस्मादेव प्राप्तदीक्षा ’सोदरी निवेदिता’ इति नाम्ना भारतीयैव सम्पन्ना ।

आबाल्याद् अध्यात्मासक्तया तया लण्डन्नगरे कदाचित् सम्प्राप्तं स्वामिनो विवेकानन्दस्य दर्शनम् । भारतीयज्ञानसंस्कृत्यादीन् विषयान् स्वामिनो निशम्य लब्धादरा सा तमेव स्वं गुरुदेवं मेने । ततो भारतीयानि चिन्तनानि अधीयानायाः तस्या मनसि भारतं पश्येयम् इत्यभिलाषो जागरितः । स्वामिना सह पत्रमाध्यमेन निरन्तरं सम्पृक्ता सा कदाचित् तदीयं किञ्चन पत्रं प्राप्नोद्, यत्र लिखितम् आसीत् - ’मम देशस्य योषाभ्यो विद्याभ्यासं प्रकल्पयितुं कांश्चिदुपायान् चिन्तयन्नस्मि, यस्यावश्यकता महती वर्ततेऽधुना । त्वया महत् साहाय्यं प्राप्नुयाम् अहम् । एहि । इह परःसहस्राः स्त्रियः त्वां प्रतीक्षमाणाः सन्ति ।’ इति । इदम् आह्वानम् अङ्गीकृत्य भारतमायाता मार्गरट् अत्रत्यानां स्त्रीणां सर्वतोमुखाय विकासाय प्रयतिष्य इति सङ्कल्पम् अकरोत् ।
इत्थं भारते वसन्ती सा १८९८तमे वर्षे स्वामिनो विवेकानन्दात् प्राप्तदीक्षा निवेदिता इति कृतनूतनाभिधा च भारते सर्वत्र सञ्चचार, अत्रत्यां स्थितिम् सम्यग् अवजगाम च । गच्छता कालेन सनातनधर्मस्य निष्कृष्टं ज्ञानं सम्प्राप्तवत्या तया आध्यात्मिकजीवनस्य नानाविधाः सिद्धयोऽपि अधिगताः । न केवलं तया स्त्रियः शिक्षिताः, मौढ्यादिकम् अपहाय विचारपरतां प्रवर्ध्य स्वकर्तव्यानि मनसि आधाय च जीवितुं सम्प्रेरिताः अपि । स्वच्छतादिषु सामाजिककर्मस्वपि कृतप्रवृत्तिकया तया बङ्गाळप्रान्ते मारिका(plague)रोगेण सन्त्रस्ते सति वैद्यालयम् उद्घाट्य रुग्णाः शुश्रूषिताः । बालानामपि शिक्षणे कृतस्तया महान् उद्यमः ।

इत्थं सामाजिकस्वास्थ्याय सन्ततं यतमाना सा स्वातन्त्र्यान्दोलनेऽपि प्रमुखं पात्रं निरवहत् । यदा तु वङ्गभङ्गान्दोलनं प्रारब्धं तदा एषापि आङ्ग्लेयशासनं विरुद्ध्य तीक्ष्णान् लेखान् अलिखत् । देशे सर्वत्र सञ्चरन्ती विशिष्य यूनः स्वातन्त्र्यसङ्ग्रामाय प्रेरयन्ती सा सर्वेषु स्वातन्त्र्यस्वप्नं दास्यविरोधिभावं च अजागरयत् । या तावत् स्त्रीणां शिक्षणे सौम्यतमा सरस्वतीरूपा सैव ब्रिटीष्शासनविषये उग्रा दुर्गास्वरूपिणी भवति स्म । सेयं ज्ञानगङ्गा रामायणमहाभारतादिषु विशिष्टां श्रद्धाम् आदधती भारतीयानां चिन्तनानां महत्त्वं भारतीयेभ्य एव साधु उपदिदेश । पूर्ववङ्गप्रान्ते यदा प्राकृतिकेषु विकोपेषु सञ्जातेषु स्वं स्वास्थ्यं जीवनं च अपरिगण्य तत्रत्यानां सेवां विधाय च भारतीयानां सर्वेषाम् अपि प्रिया ’सोदरी’ समभूत् । साहित्येऽपि प्राप्तनैपुणयानया पञ्चदशाधिकाः कृतयो विरचिताः सन्ति आङ्ग्लभाषया । निजगुरोर्निर्याणादनन्तरमपि स्वां दीक्षां श्रद्धया निर्वहन्ती सा १९११वत्सरस्य अक्टोबर् ११ दिनाङ्के अमुं लोकम् अत्यजत् ।

इत्थं नैकैः कारणैः विशिष्टतमम् अस्या जीवनम् अस्मद्राष्ट्रस्य चिरस्मरणीयेषु अध्यायेषु अन्यतमम् । समुज्ज्वलं तस्या जीवनं प्रदर्शयतु नः पन्थानम् ।


कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।
संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

Thursday 10 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् | लेखः ११. उत्तरकर्णाटकस्य पुरुषसिंहाः – हलगलिस्थाः पुरुषसिंहाः |



स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्
लेखः ११. उत्तरकर्णाटकस्य पुरुषसिंहाः – हलगलिस्थाः पुरुषसिंहाः

स काल आसीत् सर्वा मर्यादा अतिक्रम्य विजृम्भमाणानाम् आङ्ग्लेयदौष्कृत्यानाम् । तदसहमानैः भारतीयैः राष्ट्रे सर्वत्र तीव्रतमाः प्रतिरोधाः प्रारब्धाः १८५७समये । तस्मिन्नेव वर्षे नवेम्बर्-मासे निःशस्त्रीकरणम् आदिष्टं सर्वकारेण । एवं ’शस्त्राणि न कस्मिन्नपि न स्युः’ इत्याकारकेण अनेन नियमेन सर्वैरपि स्वान्यायुधानि समर्पणीयानीति स्थितिरुपनता । किन्तु किं कुर्युर्निषादाः येषाम् आजीविका आयुधाधीना । तस्माद् हलगलिस्थः कश्चन निषादगण आदेशमिमं धिक्कृत्य सशस्त्र एव स्थितः, यस्मात् कृत्स्नो ब्रिटिष्सर्वकारो भीतभीतः समभूच्चेत्यसौ विशिष्टः प्रसङ्गो नः स्वातन्त्र्यसङ्ग्रामस्य । सोऽयं प्रसङ्गः १८५७तमे प्रथमसङ्ग्रामे कर्णाटकस्य महत्तमं योगदानं वर्तते । हलगलिं समया वर्तमानेभ्यः मण्टूरु-भोधानि-अलगुण्डि-प्रभृतिभ्योऽपि विषयेभ्यो महत्या संख्यया समवेतैः सहायैर्युक्तानाम् एतेषां व्याधानाम् अनुपमात् पराक्रमाद् भीता ब्रिटिष्सैनिका ततः पलायनैकशरणाः सञ्जाताः । क्रुद्धेन प्रशासनेन एतेषां निग्रहणाय बेळगावितो महत्तरा सेना समानीता, यस्य नेता आसीत् कार् साहेब् इत्याख्यः । आहवेऽस्मिन् व्याधानां गुरुः बाबाजी निम्बाळ्करः शर्वोपमेण शौर्येण युद्ध्यमानो दिवं ययौ । तथापि अप्रतिहतवीर्येण व्याधसैन्येन धराशायिनी कृता कार्-साहेबस्य सेना । क्रुद्धः स सेनानीः जयाय वाममार्गमाश्रयन् समग्रं गलगलिप्रदेशं वह्निना ददाह । परमस्वाभिमानिनो व्याधा न ततः पलायिताः । तेषु बहवो भस्मीभूताः केचिच्च बन्दीभूताः ।

तत्र पञ्चविंशतये निषादेभ्यो मरणदण्डनं विहितम् । सामाजिकेषु भयम् अनष्टं स्याद् इति धिया मुधोळे सहस्राधिकानां जनानां सम्मुखे ते मृत्युस्तम्भमारोपिताः १८५८, जनवरी ११ दिनाङ्के ।
इदं प्रकरणं पश्चाज्जातानां बहूनां युद्धानां प्रेरकं समभूदित्यतोऽपि हेतोः वैशिष्ट्यम् आवहति । अमीषां वीरव्याधानां यशोगाथाः अधुनापि उत्तरकर्णाटके ’लावणी’माध्यमेन विलसन्ति ।         

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।

संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

Wednesday 9 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् | लेखः १०. राष्ट्रगुरुः पण्डितो मदनमोहनमालवीयः |


स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्
लेखः १०. राष्ट्रगुरुः पण्डितो मदनमोहनमालवीयः

भारतस्य स्वतन्त्र्यसङ्ग्रामे भव्यतानिर्माणे च पण्डितप्रवरस्य तत्रभवतो मदनमोहनमालवीयस्य पात्रं महत्तमम् । यथा महात्मा गान्धी राष्ट्रपितेति सम्मान्यते तथासौ राष्ट्रगुरुरिति सर्वत्र सम्मान्येत । भारतीयशिक्षणस्य अनुवर्तनाय एतत्संस्कृतिरक्षणाय च आसेतु आहिमालयं भक्षाम् अटित्वा काशीहिन्दूविश्वविद्यालयं प्रतिष्ठापयामास एष महाभागः । स्वातन्त्र्यसेनानीः कविः साहित्यकृत् विद्याप्रणयी भारतीयताचिन्तकश्चासौ मौढ्यादीनां दूरीकरणायापि यतमानः सन् सर्वत्र पण्डित इत्यव प्रथित आसीत् । साम्प्रतं सर्वतः प्रसृतं ’सत्यमेव जयते’ इति ध्येयवाक्यम् आदावनेनैव जनजीवने समानीतम् ।

१८५७ काले भारतसर्वकारेण कल्कत्ता मुम्बयी मद्रास् चैतेषु स्थानेषु विश्वविद्यालयाः प्रतिष्ठापिताः । किन्तु एते आङ्ग्लेयान् एव विश्वविद्यालयान् अनुसरन्ति स्म । अनेन आङ्ग्लेयानां भाषा संस्कृतिः आचारः – इत्यादिकमेव उत्कृष्टम्, भारतीयं सर्वं निकृष्टं चेति भावः सर्वत्र प्रवर्धते स्म । किञ्च भारतीयज्ञानाचारसंस्कृत्यादिषु बद्धादरोऽयं धीरः शिक्षणेऽप्येतेषाम् आवश्यकतां पश्यन् तदर्थं वाराणस्यां विश्वविद्यालयः प्रतिष्ठाप्यः इति सङ्कल्पं चकार । किन्तु तदर्थस्यार्थस्य कुतो लब्धिः ? धृतिमानसौ मालवीयः आकाश्मीरम् आकन्याकुमारि सञ्चचार, सर्वत्रैतन्महाकार्यम् उद्दिश्य भिक्षां ययाच च । एवं राष्ट्रं सञ्चार्य रूप्यकाणाम् एकां कोटिं चतुस्त्रिंशतं लक्षाणि च सङ्गृहीतवतः तस्य ’भिक्षुकसम्राट्’ इति बभूव नूतनं नामधेयम् । इत्थं महतोपक्रमेण १९१६तमे वत्सरे लब्धजन्मा तत्स्वप्नशिशुः बनारस्-हिन्दूविश्वविद्यालयो वर्षाणां शतकमपि समतीत्य अद्यापि भारतीयज्ञानपरम्परां नितमां परिवर्धयन्नस्ति । शिक्षणक्षेत्रस्य परिष्करणे अधिकं श्रद्दधानेन तेन स्वातन्त्र्यसङ्ग्रामः सामाजिकसमस्याः वार्तापत्रिकाः चेत्यादिष्वपि क्षेत्रेषु निरन्तरं व्यवसितम् । इत्थं विशिष्टैः कर्मभिः अजरामरतां यातोऽयं महात्मा १९४६तमे वर्षे दिवङ्गतः । एतं शिक्षारक्षकं सम्मानयितुमिच्छुः भारतसर्वकारः २०१४तमे वत्सरे ’भारतरत्न’प्रशस्तिं प्रदाय कृतार्थताम् अन्वभवत् । 

सोऽयं राष्ट्रगुरुरस्माकं स्मर्तव्यो नन्तव्यश्च ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।

संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् । लेखः ९. विदेशवासिनी भारतप्रणयिनी – मेडम् भिकाजि कामा ।



स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् ।
लेखः ९. विदेशवासिनी भारतप्रणयिनी – मेडम् भिकाजि कामा ।

’विदेशीयभूमौ इदम्प्रथमतया भारतध्वजारोहणकर्त्री’ इति कीर्तिम् आवहन्ती मेडम् कामा नैकैः कारणैः भारतीयस्वातन्त्र्यसङ्ग्रामे विशिष्टं स्थानं भजते । अस्या रक्तगतैवासीद् देशभक्तिः । तीव्रेण मारिका(Plague)रोगेण पीडितया तया बन्धूनाम् आग्रहम् ऊरीकृत्य लण्डन्नगरं प्रति गन्तव्यमापतितम् । रोगान्मुक्तौ प्राप्तायां तत्रैव स्वानि राष्ट्रजागराकार्याणि कर्तुम् उपचक्रमे सा । विदेश एव तत्रत्यै राष्ट्रभक्तैः सह सम्भूय भारतध्वजं निर्मितं तया । जर्मन्याः स्टट्गार्ट् इत्यत्र प्रवृत्ते अन्ताराष्ट्रीयसमाजवादिसम्मेलने भारतस्य प्रतिनिधित्वं वहन्ती सा भारतीयानां सङ्कष्टानि आङ्ग्लेयानां दुष्कृत्यानि च स्फुटं प्रास्तौत् । तत्रैव भारतराष्ट्रध्वजम् आरोह्य तं प्रति सर्वान् सगैरवान् अकरोत् । इत्थं कस्मिंश्चिद् विदेशे कस्याञ्चिद् अन्ताराष्ट्रीयसभायां भारतध्वजम् इदम्प्रथमतया आरोहितवतीयं मेडं कामा! जर्मन्याः सम्मेलनात् पश्चात् सा अमेरिकां यात्वा न्यूयार्क्-नगरे वार्ताहरेषु आङ्ग्लेयानां दुःशासनं व्यवृणोत् अखण्डयच्च । १९०८तमे वत्सरे लण्डन्नगरं प्रत्यागत्य भारतभवने कस्मिंश्चित् सदसि भाषमाणा ’आङ्ग्लेयैः प्रदीयमानं पदम् उन्नततमं स्याच्चेदपि नास्माभिरादेयम् । भारतमस्मदीयम् । स्वतन्त्रं जीवनं परिकल्पनीयम् ।’ इति उपदिदेश । अनेनोपदेशेन कुपितो ब्रिटिष्सर्वकारः तां निजदेशान्निर्गन्तुम् आदिश्य, तस्या भारतप्रवेशमपि निरुरोध । तदेयं प्यारिस्-नगरे प्राप्तस्थाना तत्रापि लब्धैः समानमनस्कैः सम्भूय ’वन्दे मातरम्’ इत्याख्यां पत्रिकां प्रारेभे । स्वातन्त्र्यवीरः सावर्करो यदा लण्डन्-नगरम् अगात् तदा राष्ट्रभक्तानां सङ्घटने तत्साहाय्यम् आचरद् एषा कामा । विदेशे स्थिताप्येषा भारते निरन्तरं प्रकृष्टप्रभावा चीना ईजिप्ट् इत्यादिषु देशान्तरेष्वपि प्रीत्यादरपात्रतां प्राप्नोत् । क्रान्तिपथगामिनां सर्वेषामेषा प्रेममयी स्वसा वात्सल्यमयी जननी चासीत् । अन्ते च, सेयं स्वाभिलाषानुसारेण भारतमागत्य, १९३६ आगस्ट् १३ दिनाङ्के पञ्चताम् अगमत् । चतुस्त्रिंशतं वर्षाणि भारतादन्यत्र तिष्ठन्त्या अपि अस्याः अशेषा प्रीतिः भारतैकविषया, प्रवृत्तिः स्वातन्त्र्यैकलक्ष्या, शक्तिः सङ्घटनैकनिष्ठा चासीत् ।

तामेनां वीरमातरं स्मरेम नमेम च ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।
संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

Monday 7 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् । लेखः ८. हिन्दूयवनसाहोदर्यस्य अनुकरणीयम् उदाहरणम् – रामप्रसाद बिस्मिल् अष्फाक् उल्ला खान् च ।



स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् ।

लेखः ८. हिन्दूयवनसाहोदर्यस्य अनुकरणीयम् उदाहरणम् – रामप्रसाद बिस्मिल् अष्फाक् उल्ला खान् च ।

भारतीयस्वातन्त्र्यसङ्ग्रामे सुगृहीतनामधेययोः रामप्रसाद बिस्मिल् अष्फाक् उल्ला खान् इत्यनयोः काचिद् अनुपमा कथा । इयं तावद् हिन्दूनां यवनानां च भ्रातृत्वस्य विशिष्टमुदाहरणमपि । मतीयैर्विषयैर्मिथो भेदं चिकीर्षताम् आङ्ग्लेयानां तन्त्राणि तिरोधाय मृत्युस्तम्भारोहणपर्य्यन्तं सहैव राष्ट्रहितचिन्तनेषु प्रवृत्ताभ्याम् एताभ्यां स्वधर्मनिष्ठा राष्ट्रनिष्ठा च सममेव कथं निर्वहणीयेति सुष्ठु बोधितमस्ति । तदिदं मतीयस्वातन्त्र्यनाम्ना राष्ट्रविरोधिकर्मसु प्रवर्तमानैः कैश्चित् साम्प्रतिकैः अवश्यम् अध्येयं ध्येयं च ।

अष्फाक् उल्ला उत्तरप्रदेशीये शहजान्पुरे स्थिते कस्मिंश्चित् धनिककुटुम्बे सञ्जातः सुशिक्षितो युवा । तद्वंशीया बहवो ब्रिटिष्सर्वकारस्य उन्नतेषु स्थानेषु उद्योगिन आसन् । तथापि तद्धृदिस्थिता अत्युत्कटा राष्ट्रभक्तिः तम् अपरं राष्ट्रभक्तं क्रान्तिपथयायिनं रामप्रसादबिस्मिलं प्रति आनिनाय । रामप्रसाद आर्यसमाजीयः । अष्फाकश्च स्वेषु इस्लाम्मतीयतत्त्वेषु श्रद्धावान् । कारायामपि रामप्रसादेन यागादिकम् अनुष्ठीयते स्म, अष्फाकेन तु प्रत्यहं पञ्चवारं प्रार्थना । इत्थं मतीयाचारेषु भेदे सत्यपि हृदये नासीत् तल्लेशोऽपि । सहोदराविव स्थितौ तौ विघटयितुम् आङ्ग्लेयैः कृताः सर्वेऽपि प्रयत्ना विफलाः सञ्जाताः । अनयोः तीव्रतमाः क्रियाः ब्रिटिष्शासनस्य नितान्तं प्रतिकूलाः समभूवन् । अन्ते च, काकोरिरेलयानलुण्ठनप्रकरणे कथञ्चिदेतौ निबद्ध्य मृत्युस्तम्भम् आरोहयामास आङ्ग्लशासनं १९२७तमे वत्सरे डिसेम्बर् १९तमे दिनाङ्के । तदिदमपि सहैव स्वीकृतमेताभ्यां भ्रातृभ्याम् ।

उभावप्येतौ कवितल्लजावप्यास्ताम् । अष्फाको ब्रवीति कस्याञ्चित् कवितायाम् – ’जीवनं मरणं च न सत्यमिति उपदिष्टं किल भगवता श्रीकृष्णेन अर्जुनाय । क्व यातं तज्ज्ञानम् ? मृत्युरायास्यत्येव । कुतस्ततो नो भीतिः ? राष्ट्रं स्वतन्त्रम् उज्ज्वलं च भवेत् । स्थितैर्गतैर्वास्माभिः किं व्यत्यस्यते ?
अनयोरिदं भ्रातृत्वम् अनुकरणीयं भूयादस्माकम् ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।

संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

Sunday 6 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् | लेखः 7. स्वामिनो विवेकानन्दस्य सहोदरः - क्रान्तिकृशानुः भूपेन्द्रनाथदत्तः ।


स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्
लेखः 7. स्वामिनो विवेकानन्दस्य सहोदरः - क्रान्तिकृशानुः भूपेन्द्रनाथदत्तः ।

स्वामिनं विवेकानन्दं को नु न जानाति ? किन्तु तत्सहोदरो बहूनामस्माकम् अविदित एव । सोऽपि नः स्वातन्त्र्यसङ्ग्रामे क्रान्तिपथगामिनाम् अन्यतमः सन् अजरामरः सञ्जातोऽस्ति । तत् तदीयां वीरगाथां विलोकयेमाद्य ।

कोल्कत्तास्थितः कश्चन दत्तकुटुम्बः अन्वर्थनामा, यतो बहुभिस्तदीयैः राष्ट्रहिताय जीवनम् एव दत्तम् । तत्र कौचिद् दम्पती भुवनेश्वरीदेवी विश्वनाथदत्तश्चेति । तयोर्द्वे पुत्ररत्ने नरेन्द्रनाथदत्तो भूपेन्द्रनाथदत्तश्चेति । तयोराद्योऽध्यात्मवर्त्मना सञ्चरन् विवेकानन्दनाम्ना विश्वमान्यः सञ्जात इत्येषा प्रथितैव कथा । अपरस्तु क्रान्तिमार्गमाश्रयन् भारतीयस्वातन्त्र्यसङ्ग्रामे प्रमुखं पात्रं निरवहत् । असौ शक्तिशालिन्योः सङ्घटनयोः युगान्तरस्य अनुशीलनसमित्याश्च प्रमुखः सदस्य आसीत् । आङ्ग्लेयानां समूलमुन्मूलनं क्रान्तिपथेनैव साध्यमिति युगान्तरस्यासीद् द्रढीयान् विस्रम्भः । निजामिमां विचारधारां सर्वतः प्रापयितुम् असौ भूपेन्द्रनाथः स्वसुहृद्भ्यां बारिन्द्रकुमारघोषेण अविनाशभट्टाचार्येण च सह युगान्तराख्यां पत्रिकां प्रारेभे १९०६तमे वत्सरे । अमुष्य मर्मस्पर्शिभिर्लेखैराङ्ग्लेयानां नानाविधानि कुतन्त्राणि, क्रान्तिपथस्यावश्यकता च जनैः सम्यगवगता । एतत्फलरूपेन परःसहस्रा जनाः क्रान्तिवर्त्मन्यात्मानं व्यापारयामासुः । अनेन भूपेन्द्राय क्रुद्ध्यन्त आङ्ग्लेयाः १९०७तमे वर्षे तस्मिन् देशद्रोहम् अपराधम् आरोप्य कारां प्रवेशयामासुः । अस्याः पत्रिकायाः बलात् प्रतिष्टम्भनेऽपि साफल्यमनुभूतम् आङ्ग्लेयैः । वर्षं कारावासम् अनुभूय लब्धविमोचनो भूपेन्द्रः गुप्तमेव अमेरिकाम् अगात् । तत्र एम्.ए.पदव्याम् अधीयानः स पुनरपि क्रान्तिक्रियासु प्रवृत्तोऽभवत् । केनडां जर्मनीं च गत्वा तत्रत्यानाम् आङ्ग्लविरोधिनीनां सङ्घटनानां साहाय्येन क्रान्तिपथेन स्वातन्त्र्यप्राप्त्यै महत्तमं यत्नम् अकार्षीत् सः ।

१९२३तमे वत्सरेऽसौ भारतं प्रत्यागत्य भारतीयराष्ट्रीयकाङ्ग्रेस् इत्यत्र प्रविष्टः सन् स्वानि कर्माणि अनुवर्तयन् बहुकृत्वः कारावासमप्यभजत । स्वातन्त्र्यप्राप्तेः पूर्वं पश्चाच्च स्वेषु चिन्तनेषु क्रियासु च अविश्रान्तं व्यवस्यन् १९६१तमे वत्सरे पञ्चताम् अवाप्नोत् । अप्रतिमेन पाण्डित्येन साहित्यकौशलेन चासौ बेङ्गाली हिन्दी आङ्ग्लं जर्मन् इरानियन् – इत्येतासु भाषासु नैकानि पुस्तकानि रचयामास । स्वामिनं विवेकानन्दं विषयीकृत्य अनेन लिखितं Swami Vivekananda : Patriot-Prophet इत्याख्यं पुस्तकं नितान्तं प्रसिद्ध्यति ।

तावेतौ देशभक्तानां धुरि कीर्तनीयौ स्मरणीयौ नमनीयौ च ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।
संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

Saturday 5 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् लेखः ६. कर्णाटमातुः सुपुत्रः मैलारमहदेवः ।


स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्

लेखः ६. कर्णाटमातुः सुपुत्रः मैलारमहदेवः ।

स्वातन्त्र्यसङ्ग्रामस्य सर्वप्रथमादपि पदात् आरभ्य स्वातन्त्र्यप्राप्तिपर्यन्तम् अपि कर्णाटकेऽपि महता प्रमाणेन युद्धानि आन्दोलनानि च प्रवृत्तानि । एवंविधेषु कर्णाटयोद्धृषु अन्यतमो वर्तते हावेरीजनपदस्य मैलारमहदेवः, यो हि द्वात्रिंशे एव वयसि आङ्ग्लेयानां गोलिकाः सम्मुखीकृत्य प्राणान् अर्पयामास । अस्य माता बसम्मा अपि स्वातन्त्र्यान्दोलने प्रवृत्ता कारावासं प्राप्तवती आसीत् । इत्थं मातुः देशभक्तिः पुत्रे रक्तेनैव सङ्क्रान्ता स्यात् । अस्य महदेवस्य महामार्गः तस्मिन् काले असङ्ख्याकेभ्यो वीरेभ्यः स्फूर्तिप्रदम् आसीत् । सुविख्यातायां गान्धीवर्यस्य दाण्डीयात्रायां भागग्राहिषु कर्णाटकस्य एकमात्रं प्रतिनिधिः एषः । तदास्य वयः नवदश वर्षाणि । १९३०, मार्च् १२ दिनाङ्के  महात्मा गान्धीजीः स्वयं चितैः अष्टसप्तत्या सेनानीभिः सह सैन्धवसत्याग्रहार्थं साबरमतीतः दाण्डीयात्राम् आरभ्य, पञ्चविंशभिः दिनैः ३८५कि.मी. दूरं सञ्चर्य च यदा आङ्लेयशासनम् अभान्त्सीत्, तदा अयं महदेवोऽपि तद्गणस्याङ्गभूतः आसीत् । अनेन गान्धीवर्येण सह महदेवोऽपि षण्मासान् कारावासम् अनुबभूव । कारावासस्य समाप्तौ स्वस्थानम् आगतं तं सर्वेऽपि साभिमानं स्वागतीचक्रुः । १९३२-३३तमयोः वर्षयोः असहकारान्दोलने शासनभङ्गान्दोलने च भागो गृहीत इति हेतोः महदेवस्य पत्नी सिद्धम्मा अपि षण्मासान् कारायां निवासिता, ततः पश्चात् सा अहमदाबादं प्रति प्रेषिता च । एवम् एकस्मिन्नेव कुटुम्बे माता पुत्रः स्नुषा चैवं सर्वेऽपि स्वातन्त्र्यान्दोलने भागम् अग्रहीषुः कारावासम् अन्वभूवंश्चेत्येतदपि अत्रत्यानां सुदृढां राष्ट्रभक्तिम् आम्रेडयति । पञ्चषवारं कारावासे प्राप्तेऽपि अस्य धृतिर्मनागपि न विचलिता । समाजस्य समुन्नयनाय नानाविधानि कार्याणि कुर्वता तेन १९३७तमे वर्षे ग्रामसेवाश्रमः समारब्धः । ’भारतान्निष्क्रामत’ इत्यस्मिन् आन्दोलने धारवाडजनपदस्य दक्षिणभागस्य नेतृत्वम् ऊढमनेन । तस्म्न्नेव काले आङ्ग्लप्रशासनस्य कृषीवलेभ्यो बलात् करग्रहणम्, करम् अददत्सु क्रूरकृत्यानि च अविरतं प्रवर्तन्ते स्म । तदिदं क्रौर्यम् असहमानो महदेवः प्रशासनेन कृषकेभ्यो बलात् आहृतं करं प्रत्यानेतुं सहवर्तिभिः सह प्रयेते । अस्यां दिशि क्रान्तिमार्गमपि आश्रयन्नेषः तेषां प्रशासनं बहुधा शिथिलम् अकार्षीत् । अस्यामेव क्रियायां १९४३, एप्रिल् प्रथमे दिनाङ्के होसरित्तिस्थे करसंग्रहकेन्द्रे आक्रमणं कुर्वन् आङ्ग्लाधिकारिभिः सह प्रवृत्ते प्रधने प्राणान् अन्यजत् । तद्दिने अनेन सह तिरुकप्पमडिवाळरः वीरय्य-हिरेमठः – इत्येतावपि योद्धारौ प्राणत्यागम् अकुरुताम् ।  

एवम् आद्ये एव वयसि राष्ट्रार्थं प्राणत्यागं कृतवतः अस्य स्मरणार्थं हावेर्यां वीरसौधं निर्मीय गौरवभावं व्यञ्जितवत्यस्ति स्वतन्त्रा जनता ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।

संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

Friday 4 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः ५ - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् | लेखः ५. तरुणतमः प्राणार्पकः खुदिरामबोस् |


स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्

लेखः ५. तरुणतमः प्राणार्पकः खुदिरामबोस्

स्वातन्त्र्यप्राप्तये क्रान्तिमार्गम् आश्रितवतां योद्धॄणाम् अन्यतमो वर्तते सुगृहीतनामधेयः खुदिरामः बोस् (०३/१२/१८८९ – ११/०८/१९०८) । स्वीये नवदशे एव वर्षे मृत्युस्तम्भम् आरूढः एषः तद्विधिना प्राणार्पकेषु यविष्ठः इति वैशिष्ट्यम् आवहति । यदासौ पाशम् (hanging) आप्नोत् तदा तद्वयः 18 वर्षाणि 8 मासाः 8 दिनानि

स्वातन्त्र्यसङ्ग्रामे भागग्राहिणां भारतीयानां विचित्राणि अत्यन्तघोराणि दण्डनानि कुर्वन् विकृतम् आनन्दम् अनुभवति स्म तदानीन्तनः आङ्ग्लेयन्यायाधीशः किङ्ग्स् फोर्ड् इत्याख्यः कल्कत्तायाम् भारतीयेषु तदीयं क्रौर्यं सीमातीतम् आसीत् तान्येतानि क्रूरचेष्टितानि उन्मूलनीयानीति निश्चित्य खुदिरामः तं हन्तुं प्रायतत किन्तु दैवेन रक्षितोऽभवत् किङ्ग्स् फोर्ड् तथापि तत्प्रकरणे खुदिरामम् अपराधिनं निर्णीय तं मृत्युस्तम्भारोपणरूपेण दण्डेन योजयामासुः

अस्मत्स्वातन्त्र्यसङ्ग्रामे अस्य प्रसङ्गस्य प्रभावो महान् वर्तते आङ्ग्लेयानाम् अतिशयितम् अवलेपं शतच्छिद्रं कृतवान् आसीत् ऊनविंशतिवर्षीयोऽयं युववीरः भारतीयस्वातन्त्र्यसङ्ग्रामे इदम्प्रथमतया बाम्ब्-प्रयोगः अनेनैव विहितः इत्यपि विशेषो विद्यतेऽस्य! अनेन प्रथमतया आङ्ग्लेयसर्वकारः भयेन परिचायितः ये आङ्ग्लेयाः तावत्पर्यन्तं भारतीयान् तृणाय मन्यमानाः दृप्यन्ति स्म, तैः तेषामेव भारतीयानां (क्रान्तिमार्गगानां) विश्वरूपं व्यलोकि १९०८तमे वर्षे आगस्ट्मासस्य एकादशे दिनाङ्के यदा खुदिरामबोस् मृत्युपाशम् आरुह्य भारताम्बायाः चरणकमलयोः स्वं समर्पयामास, तदा तदानने स्निद्धो हासः सुप्रतिष्ठित एवासीत्

सोऽयं महान् देशभक्तः स्मर्तव्यो नन्तव्यश्च   

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।

संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।