Saturday 12 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् । लेखः १२. विदेशीया वात्सल्यमूर्तिः सोदरी निवेदता ।



स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् ।
लेखः १२. विदेशीया वात्सल्यमूर्तिः सोदरी निवेदता ।

ऐर्लेण्ड्देशसञ्जाता चेदपि भारतस्य सेवायै स्वजीवनं समर्पितवत्याः मार्गरेट् एलिजबेत् नोबेल् इत्यस्याः सच्चरितं सर्वविदितम् । सेऽयं स्वामिनो विवेकानन्दस्य भाषणबोधनादिभिः प्रभाविता सती, तस्मादेव प्राप्तदीक्षा ’सोदरी निवेदिता’ इति नाम्ना भारतीयैव सम्पन्ना ।

आबाल्याद् अध्यात्मासक्तया तया लण्डन्नगरे कदाचित् सम्प्राप्तं स्वामिनो विवेकानन्दस्य दर्शनम् । भारतीयज्ञानसंस्कृत्यादीन् विषयान् स्वामिनो निशम्य लब्धादरा सा तमेव स्वं गुरुदेवं मेने । ततो भारतीयानि चिन्तनानि अधीयानायाः तस्या मनसि भारतं पश्येयम् इत्यभिलाषो जागरितः । स्वामिना सह पत्रमाध्यमेन निरन्तरं सम्पृक्ता सा कदाचित् तदीयं किञ्चन पत्रं प्राप्नोद्, यत्र लिखितम् आसीत् - ’मम देशस्य योषाभ्यो विद्याभ्यासं प्रकल्पयितुं कांश्चिदुपायान् चिन्तयन्नस्मि, यस्यावश्यकता महती वर्ततेऽधुना । त्वया महत् साहाय्यं प्राप्नुयाम् अहम् । एहि । इह परःसहस्राः स्त्रियः त्वां प्रतीक्षमाणाः सन्ति ।’ इति । इदम् आह्वानम् अङ्गीकृत्य भारतमायाता मार्गरट् अत्रत्यानां स्त्रीणां सर्वतोमुखाय विकासाय प्रयतिष्य इति सङ्कल्पम् अकरोत् ।
इत्थं भारते वसन्ती सा १८९८तमे वर्षे स्वामिनो विवेकानन्दात् प्राप्तदीक्षा निवेदिता इति कृतनूतनाभिधा च भारते सर्वत्र सञ्चचार, अत्रत्यां स्थितिम् सम्यग् अवजगाम च । गच्छता कालेन सनातनधर्मस्य निष्कृष्टं ज्ञानं सम्प्राप्तवत्या तया आध्यात्मिकजीवनस्य नानाविधाः सिद्धयोऽपि अधिगताः । न केवलं तया स्त्रियः शिक्षिताः, मौढ्यादिकम् अपहाय विचारपरतां प्रवर्ध्य स्वकर्तव्यानि मनसि आधाय च जीवितुं सम्प्रेरिताः अपि । स्वच्छतादिषु सामाजिककर्मस्वपि कृतप्रवृत्तिकया तया बङ्गाळप्रान्ते मारिका(plague)रोगेण सन्त्रस्ते सति वैद्यालयम् उद्घाट्य रुग्णाः शुश्रूषिताः । बालानामपि शिक्षणे कृतस्तया महान् उद्यमः ।

इत्थं सामाजिकस्वास्थ्याय सन्ततं यतमाना सा स्वातन्त्र्यान्दोलनेऽपि प्रमुखं पात्रं निरवहत् । यदा तु वङ्गभङ्गान्दोलनं प्रारब्धं तदा एषापि आङ्ग्लेयशासनं विरुद्ध्य तीक्ष्णान् लेखान् अलिखत् । देशे सर्वत्र सञ्चरन्ती विशिष्य यूनः स्वातन्त्र्यसङ्ग्रामाय प्रेरयन्ती सा सर्वेषु स्वातन्त्र्यस्वप्नं दास्यविरोधिभावं च अजागरयत् । या तावत् स्त्रीणां शिक्षणे सौम्यतमा सरस्वतीरूपा सैव ब्रिटीष्शासनविषये उग्रा दुर्गास्वरूपिणी भवति स्म । सेयं ज्ञानगङ्गा रामायणमहाभारतादिषु विशिष्टां श्रद्धाम् आदधती भारतीयानां चिन्तनानां महत्त्वं भारतीयेभ्य एव साधु उपदिदेश । पूर्ववङ्गप्रान्ते यदा प्राकृतिकेषु विकोपेषु सञ्जातेषु स्वं स्वास्थ्यं जीवनं च अपरिगण्य तत्रत्यानां सेवां विधाय च भारतीयानां सर्वेषाम् अपि प्रिया ’सोदरी’ समभूत् । साहित्येऽपि प्राप्तनैपुणयानया पञ्चदशाधिकाः कृतयो विरचिताः सन्ति आङ्ग्लभाषया । निजगुरोर्निर्याणादनन्तरमपि स्वां दीक्षां श्रद्धया निर्वहन्ती सा १९११वत्सरस्य अक्टोबर् ११ दिनाङ्के अमुं लोकम् अत्यजत् ।

इत्थं नैकैः कारणैः विशिष्टतमम् अस्या जीवनम् अस्मद्राष्ट्रस्य चिरस्मरणीयेषु अध्यायेषु अन्यतमम् । समुज्ज्वलं तस्या जीवनं प्रदर्शयतु नः पन्थानम् ।


कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।
संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

No comments:

Post a Comment