Wednesday 2 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् | लेखः २. राज्ञी गाय्डिन् ल्यू |


स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्

लेखः २. राज्ञी गाय्डिन् ल्यूः

नाम्नि श्रुते सति इयं काचिद् आङ्लेया व्यक्तिरिति प्रतिभायात् । परन्त्वेषा वर्तते ऐशान्यभारतस्य नागाल्याण्ड्-राज्यस्य सर्वविधसंवर्धनार्थं सन्ततं कृतश्रमा वीरवनिता । अनयैव धैर्यधनया ईशान्यराज्येषु आङ्ग्लेयशासनं विरुध्य स्वातन्त्र्याय जनाः प्रचोदिताः सङ्घटिताश्च । स्वकीये द्वादशे एव वर्षे स्वातन्त्र्यसंग्रामं प्रविष्टायाः, षोडशे वर्षे आमरणं कारावासम् आप्तायाश्च अस्याः चतुर्णां वर्षाणां पराक्रमपरिपाटी नूनं विस्मयावहा । न केवलम् एषा सङ्ग्रामं प्राविक्षत्, अपि तु, नागाजनेषु स्वधर्मविषये स्थितम् अवरत्वभावं व्यपोह्य आत्माभिमानम् अजागरयत् । सेयं प्रत्येकं वनवासिसमुदायम् उपसर्प्य आङ्ग्लेयानां कुतन्त्राणि विवृत्य च स्वकर्तव्यं सुष्ठु प्रत्यबोधयत् । अनेन लब्धावबोधाः तत्रत्याः स्त्रियः सुदृढां सेनामेव अघटयन् । उदीर्णोत्साहा गायिडिन् लूः ताभ्यः साम्प्रदायिकानां मारकास्त्राणां निर्माणं युद्धकलाः च अशिक्षयत् । निजेन गेरिल्लायुद्धेनापि आङ्ग्लेयान् परिभूतान् कृतवत्याः तस्याः रणतन्त्रैः ते सर्वेऽपि सर्वात्मना निस्तेजस्काः विफलतन्त्राश्च अभूवन् । इत्थं धर्मरक्षणं दास्यवारणं च सङ्कल्प्य निरन्तरं व्यवस्यन्तीयं कथञ्चित् नियन्त्रणीयेति निश्चित्य, आङ्ग्लसर्वकारः स्वसेनाम् एव ईशान्यराज्यानि प्रति प्राहिणोत् । ’यस्तावत् तस्याः स्थानं ज्ञापयति सः चतुःशतेन रूप्यकैः सम्मान्यते, करमुक्तः क्रियते च’ इति उद्घोषणापि विहिता । एवम् आङ्ग्लाः यथास्वभावं कापट्येन गायडिन्-लुवः आप्तान् वशंवदान् विधाय, तस्याः स्थितिम् अज्ञासिषुः । तत्र महद् युद्धं संवृत्तं च । अन्ततः, १९३२तमे वत्सरे अक्टोबर्-मासस्य द्वादशे दिनाङ्के आङ्लेयैः निबद्धा सा विविधैः मिथ्याभूतैरारोपैः कारागारे निवेशिता । जवाहरलालनेहरूः सुभासचन्द्रबोस् – इत्यादयो नेतारः तस्या विमोचनाय भृशं प्रायतन्त । किन्तु यद्येषा विमुच्येत तर्हि नागाजनानाम् ईशान्यराज्यानां सङ्ग्रामो दुर्वारो भविष्यतीति भिया नैतदनुष्ठितम् आङ्ग्लेयैः । एवं पञ्चदश वर्षाणि कारावासम् अनुभूय १९४७तमे वर्षे राष्ट्रेण सह सापि विमुक्ता संजाता ।

स्वातन्त्र्यप्राप्तेः अनन्तरमपि मतान्तरं विरुन्धती, देशे सर्वत्र सञ्चरन्ती च ’नागाजनाः अपि भारतीयाः, तेऽपि भारतमातुः सुपुत्राः” इति मुहुर्मुहुः घोषितवती । सेयम् अप्रतिमा देशभक्ता १९९३तमे वर्षे फेब्रवरीमासस्य १७ दिनाङ्के स्वग्रामे स्वर्गता अभवत् । अस्याः स्वातत्र्यसमरम् अभिनन्दता भारतसर्वकारेण स्वातन्त्र्ययोद्ध्री इति ताम्रपत्रं दत्तमस्ति । अस्याः नाम्ना स्त्रीशक्तिपुरस्कारोऽपि प्रारब्धोऽस्ति सर्वकारेण । अस्याः साक्ष्यचित्रं निर्मितमस्ति बि.बि.सि.द्वारा । केन्द्रसर्वकारस्य पद्मभूषणप्रशस्तिः नानाराज्यसर्वकाराणां विविधाः प्रशस्तयश्च एनां स्वयम् उपगताः ।

इत्थं नितान्तं विशिष्टायाः अस्याः देशाभिमानः राष्ट्रियभावः सङ्ग्राममयं जीवनं च अद्यापि अतिशयितां प्रस्तुततां समर्हति ।        


कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।

No comments:

Post a Comment