स्वातन्त्र्योत्सवलेखनसरणिः
- कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्
लेखः ११. उत्तरकर्णाटकस्य
पुरुषसिंहाः – हलगलिस्थाः पुरुषसिंहाः
स काल आसीत् सर्वा मर्यादा अतिक्रम्य
विजृम्भमाणानाम् आङ्ग्लेयदौष्कृत्यानाम् । तदसहमानैः भारतीयैः राष्ट्रे सर्वत्र
तीव्रतमाः प्रतिरोधाः प्रारब्धाः १८५७समये । तस्मिन्नेव वर्षे नवेम्बर्-मासे
निःशस्त्रीकरणम् आदिष्टं सर्वकारेण । एवं ’शस्त्राणि न कस्मिन्नपि न स्युः’
इत्याकारकेण अनेन नियमेन सर्वैरपि स्वान्यायुधानि समर्पणीयानीति स्थितिरुपनता ।
किन्तु किं कुर्युर्निषादाः येषाम् आजीविका आयुधाधीना । तस्माद् हलगलिस्थः कश्चन
निषादगण आदेशमिमं धिक्कृत्य सशस्त्र एव स्थितः, यस्मात् कृत्स्नो ब्रिटिष्सर्वकारो
भीतभीतः समभूच्चेत्यसौ विशिष्टः प्रसङ्गो नः स्वातन्त्र्यसङ्ग्रामस्य । सोऽयं
प्रसङ्गः १८५७तमे प्रथमसङ्ग्रामे कर्णाटकस्य महत्तमं योगदानं वर्तते । हलगलिं समया
वर्तमानेभ्यः मण्टूरु-भोधानि-अलगुण्डि-प्रभृतिभ्योऽपि विषयेभ्यो महत्या संख्यया
समवेतैः सहायैर्युक्तानाम् एतेषां व्याधानाम् अनुपमात् पराक्रमाद् भीता
ब्रिटिष्सैनिका ततः पलायनैकशरणाः सञ्जाताः । क्रुद्धेन प्रशासनेन एतेषां निग्रहणाय
बेळगावितो महत्तरा सेना समानीता, यस्य नेता आसीत् कार् साहेब् इत्याख्यः ।
आहवेऽस्मिन् व्याधानां गुरुः बाबाजी निम्बाळ्करः शर्वोपमेण शौर्येण युद्ध्यमानो
दिवं ययौ । तथापि अप्रतिहतवीर्येण व्याधसैन्येन धराशायिनी कृता कार्-साहेबस्य सेना
। क्रुद्धः स सेनानीः जयाय वाममार्गमाश्रयन् समग्रं गलगलिप्रदेशं वह्निना ददाह ।
परमस्वाभिमानिनो व्याधा न ततः पलायिताः । तेषु बहवो भस्मीभूताः केचिच्च बन्दीभूताः
।
तत्र पञ्चविंशतये निषादेभ्यो मरणदण्डनं विहितम्
। सामाजिकेषु भयम् अनष्टं स्याद् इति धिया मुधोळे सहस्राधिकानां जनानां सम्मुखे ते
मृत्युस्तम्भमारोपिताः १८५८, जनवरी ११ दिनाङ्के ।
इदं प्रकरणं पश्चाज्जातानां बहूनां
युद्धानां प्रेरकं समभूदित्यतोऽपि हेतोः वैशिष्ट्यम् आवहति । अमीषां वीरव्याधानां यशोगाथाः
अधुनापि उत्तरकर्णाटके ’लावणी’माध्यमेन विलसन्ति ।
कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।
संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।
No comments:
Post a Comment