Wednesday 2 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः 1 - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्

मत्सुहृदा श्रीमता Ramachandra Hegde वर्येण परुत् स्वातन्त्र्योत्सवं निमित्तीकृत्य समग्रे आगस्ट्मासे काचन लेखनसरणिः कृता आसीत्, यत्र प्रत्यहम् एकैकस्य स्वातन्त्र्ययोद्धुः वीरगाथा प्रस्तुता । बह्वीभिः अप्रसिद्धाभिः कथाभिः युक्ता सा लेखनमाला बहुभिः बहुधा स्तुता च । अहमपि नितान्तमुपकृतोऽभवमनया । तदस्मिन् हायने तेनैव क्रमेण प्रत्यहम् एकैको लेखः संस्कृतेन प्रस्तोतव्य इति सङ्कल्पः कृतोऽस्ति । अत्र मम कृत्यं संस्कृतेन प्रस्तुतिः एव, विषयास्तु तदुपात्ताः । महत्या श्रद्धया महता श्रमेण च सद्विषयान् उपहृतवते तस्मै भूयिष्ठाः कृतज्ञताः ।

1. प्राणा एव परित्यक्ता ध्वजगौरवरक्षणे - कनकलता बरुवा भोगेश्वरी फुङ्खनानी च
राष्ट्रध्वजराष्ट्रगीतादिकं न केवलं सङ्केतार्थकम् । यतस्तेन अस्मदन्तरङ्गे ये ये भावविशेषाः सृज्यन्ते ते वाचाम् अगोचराः । युद्धे प्राप्तविजयः सैनिकः क्रीडायां विजयी स्पर्धालुर्वा राष्ट्रध्वजं वीजयन् विजयोत्सवम् आचरति । समरधरणीं प्रस्थितो योद्धा ’जेष्यामि चेत् ध्वजहस्त आयास्यामि, मरिष्यामि चेद् ध्वजावृतगात्रः’ इति वीरोद्गारं करोति च । तदिदं सर्वं राष्ट्रध्वजविषये अस्मदन्तरङ्गस्थितस्य आदरातिशयस्यैव फलम् । तस्यैतस्य वस्त्रमात्रताम् अतीतस्य राष्ट्रध्वजस्य गौरवं परिरक्षितुं परित्यक्तप्राणानां वीराणां संख्या नैकानि सहस्राणि । तेषु वीरेषु सप्तदशवर्षदेशीया बाला कनकलता, त्रिसप्ततिवत्सरा वृद्धा मातङ्गिनी हज्रा चैवं बालवृद्धमहिलादयः सर्वविधा अपि जना आसन् ।

द्विचत्वारिंशदधिकनवदशशततमं (१९४२) वर्षम् । ’निष्क्रामत भारतात्’ इत्याख्यम् आन्दोलनं सर्वत्र तीव्रतमम् आसीत् । असमराज्येऽपि आन्दोलनमिदं यज्ञोपमं प्रवर्तते स्म । स्वयमेव प्रेरिताः असंख्याका जनाः आङ्ग्लान् पराङ्मुखान् कर्तुं सङ्कल्प्य तत्र समवेता आसन् । तस्मिन्नेवावसरे सेप्टेम्बर्-मासस्य विंशे दिनाङ्के गोप्वारस्थितस्य आरक्षकस्थानस्य उपरि राष्ट्रध्वजारोहणं निर्णीतम् आसीत् । तदर्थं महान् जनसमूहः सधैर्यं सजवं च पुरः सरति स्म, यस्य अग्रणीरासीत् कनकलताख्या युवतिः, यस्याश्च वयः केवलं सप्तदश वर्षाणि ! आरक्षकैः पुनःपुनः क्रियमाणामपि सूचनां धिक्कृत्य, मरणम् अपरिगणय्य च, ध्वजधारी गणोऽयं पुरः प्रयाति स्म । प्रतिकूलशतेष्वपि लक्ष्यान्न निवर्त्यमिति निश्चितमासीत् ’मृत्युवाहिनी’नामकेन तेन महासमूहेन । एतान् निर्तयितुं मार्गान्तरम् अलभमानैरारक्षकैः गोलिकावृष्टिरारब्धा । पुरःस्थिता कनकलता गोलिकाभिरभिहता सती भूमौ निपतिता । किन्तु तस्यामप्यवस्थायां तया राष्ट्रध्वज उन्नीयैव धृत आसीत् । यावत् मुकुन्दकाकतिनामकः कश्चन तत्सहवर्ती ध्वजं तद्धस्ताद् आददे तावत्पर्यन्तमपि तया न स पातितः । अनतिकालेनैव स मुकुन्दकाकतिरपि स्वान् प्राणान् समार्पयत् । एवं म्रियमाणेष्वपि बहुषु स्वजनेषु स समूहः स्वलक्ष्यप्राप्तौ यशस्वी समभवत्, निश्चिते स्थाने ध्वजारोहणं विधाय जयघोषम् अकरोच्च ।

तस्मिन्नेव दिने नागांव्-जनपदस्य बर्हामपुरे अपरा वीरनारी भोगेश्वरी पुङ्खनानी राष्ट्रध्वजगौरवायैव स्वान् प्राणान् अत्याक्षीत् । केनचित् आङ्ग्लाधिकारिणा राष्ट्रध्वजम् अवमानितम् इति कुपितासौ तस्मिन् सत्वरम् आक्रम्य ध्वजं तस्माद् अपहृत्य च जयघोषम् अकार्षीत् । सपद्येव तेनाधिकारिणा गोलिकाभिः व्यापादिता सा वीरमरणं प्राप्नोत् ।

एवंविधाः रुधिरमय्यः वीरगाथाः प्रत्यहं पठनीयाः स्मरणीयाश्च । तदैव स्वातन्त्र्यस्य मौल्यं विदितं भविष्यति ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।

No comments:

Post a Comment