Sunday 6 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् | लेखः 7. स्वामिनो विवेकानन्दस्य सहोदरः - क्रान्तिकृशानुः भूपेन्द्रनाथदत्तः ।


स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्
लेखः 7. स्वामिनो विवेकानन्दस्य सहोदरः - क्रान्तिकृशानुः भूपेन्द्रनाथदत्तः ।

स्वामिनं विवेकानन्दं को नु न जानाति ? किन्तु तत्सहोदरो बहूनामस्माकम् अविदित एव । सोऽपि नः स्वातन्त्र्यसङ्ग्रामे क्रान्तिपथगामिनाम् अन्यतमः सन् अजरामरः सञ्जातोऽस्ति । तत् तदीयां वीरगाथां विलोकयेमाद्य ।

कोल्कत्तास्थितः कश्चन दत्तकुटुम्बः अन्वर्थनामा, यतो बहुभिस्तदीयैः राष्ट्रहिताय जीवनम् एव दत्तम् । तत्र कौचिद् दम्पती भुवनेश्वरीदेवी विश्वनाथदत्तश्चेति । तयोर्द्वे पुत्ररत्ने नरेन्द्रनाथदत्तो भूपेन्द्रनाथदत्तश्चेति । तयोराद्योऽध्यात्मवर्त्मना सञ्चरन् विवेकानन्दनाम्ना विश्वमान्यः सञ्जात इत्येषा प्रथितैव कथा । अपरस्तु क्रान्तिमार्गमाश्रयन् भारतीयस्वातन्त्र्यसङ्ग्रामे प्रमुखं पात्रं निरवहत् । असौ शक्तिशालिन्योः सङ्घटनयोः युगान्तरस्य अनुशीलनसमित्याश्च प्रमुखः सदस्य आसीत् । आङ्ग्लेयानां समूलमुन्मूलनं क्रान्तिपथेनैव साध्यमिति युगान्तरस्यासीद् द्रढीयान् विस्रम्भः । निजामिमां विचारधारां सर्वतः प्रापयितुम् असौ भूपेन्द्रनाथः स्वसुहृद्भ्यां बारिन्द्रकुमारघोषेण अविनाशभट्टाचार्येण च सह युगान्तराख्यां पत्रिकां प्रारेभे १९०६तमे वत्सरे । अमुष्य मर्मस्पर्शिभिर्लेखैराङ्ग्लेयानां नानाविधानि कुतन्त्राणि, क्रान्तिपथस्यावश्यकता च जनैः सम्यगवगता । एतत्फलरूपेन परःसहस्रा जनाः क्रान्तिवर्त्मन्यात्मानं व्यापारयामासुः । अनेन भूपेन्द्राय क्रुद्ध्यन्त आङ्ग्लेयाः १९०७तमे वर्षे तस्मिन् देशद्रोहम् अपराधम् आरोप्य कारां प्रवेशयामासुः । अस्याः पत्रिकायाः बलात् प्रतिष्टम्भनेऽपि साफल्यमनुभूतम् आङ्ग्लेयैः । वर्षं कारावासम् अनुभूय लब्धविमोचनो भूपेन्द्रः गुप्तमेव अमेरिकाम् अगात् । तत्र एम्.ए.पदव्याम् अधीयानः स पुनरपि क्रान्तिक्रियासु प्रवृत्तोऽभवत् । केनडां जर्मनीं च गत्वा तत्रत्यानाम् आङ्ग्लविरोधिनीनां सङ्घटनानां साहाय्येन क्रान्तिपथेन स्वातन्त्र्यप्राप्त्यै महत्तमं यत्नम् अकार्षीत् सः ।

१९२३तमे वत्सरेऽसौ भारतं प्रत्यागत्य भारतीयराष्ट्रीयकाङ्ग्रेस् इत्यत्र प्रविष्टः सन् स्वानि कर्माणि अनुवर्तयन् बहुकृत्वः कारावासमप्यभजत । स्वातन्त्र्यप्राप्तेः पूर्वं पश्चाच्च स्वेषु चिन्तनेषु क्रियासु च अविश्रान्तं व्यवस्यन् १९६१तमे वत्सरे पञ्चताम् अवाप्नोत् । अप्रतिमेन पाण्डित्येन साहित्यकौशलेन चासौ बेङ्गाली हिन्दी आङ्ग्लं जर्मन् इरानियन् – इत्येतासु भाषासु नैकानि पुस्तकानि रचयामास । स्वामिनं विवेकानन्दं विषयीकृत्य अनेन लिखितं Swami Vivekananda : Patriot-Prophet इत्याख्यं पुस्तकं नितान्तं प्रसिद्ध्यति ।

तावेतौ देशभक्तानां धुरि कीर्तनीयौ स्मरणीयौ नमनीयौ च ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।
संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

No comments:

Post a Comment