स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां
रुधिरमयीं जीवनगाथाम्
लेखः ४. धीरः सद्गुरुः रामसिंहः कूका
स्वातन्त्र्यसङ्ग्रामेतिहासे सिक्खसमुदायस्य पात्रं विशिष्टतमम् । अधुनापि
भारतीयसेनायां Sikh regiment नाम पराक्रमिणां समवायः । तथाभूतानां सिक्खानां नामधारी इति,
कूका इति च ख्यातस्य सम्प्रदायस्य प्रवर्तको वर्तते सद्गुरुः रामसिंहः कूका ।
तक्षककुले समुत्पन्नोऽयं रामसिंहः कुलक्रमागते तक्षणकर्मणि कृषिकर्मणि च आत्मानं
व्यापारयति स्म । किन्तु, आङ्ग्लेयानां दौर्जन्यानां परा काष्ठा, स्वजनानाम्
आत्माभिमानशून्यता च तं नितान्तं पर्यतापयत् । जनानाम् अभिमानशून्यतां दृष्टवतीभिः
काभिश्चित् मतीयसंस्थाभिः मतान्तरप्रक्रियाः अपि प्रारब्धाः आसन् । तदेतत् सर्वम्
अवलोक्य रामसिंहो निश्चिकाय यत् ’जनाः आत्मगौरवम् आध्यात्मिकोन्नतिं
राष्ट्राभिमानं च यथा प्राप्नुयुः तथा किमपि कर्तव्यम्’ इति । तस्य निश्चयस्य
फलरूपेण ’कूका’नामकः पन्थाः आरब्धः, रामसिंहः ’सद्गुरुरामसिंहः’ संजातश्च । अस्य नूत्नपथस्य प्रसिद्धिः सर्वत्र
तथा प्रसृता, येन तदनुयायिनां संख्या अल्पीयसैव कालेन वृद्धिं याता ।
पञ्जाबप्रान्तस्य २१ जनपदेष्वपि कूकानां जालं व्याप्तम् । सद्गुरुरसौ निजाभिः
प्रभाविनीभिः वाणीभिः आङ्ग्लेयशासनस्य दुराचारान् खण्डयति स्म, येन दास्यदूषिता
जडजनता अपि जागरिता समभूत् । अनेन निजैरनुयायिभिः काश्मीरेण नेपालेन च सम्बन्धः
सम्पादितः । रष्यादेशेनापि सह सम्पर्कं संसाध्य स्वातन्त्र्यप्राप्तौ तस्य
साहाय्यं प्रार्थितम् । इत्थं स्वातन्त्र्याय अन्यराष्ट्रेण सह सम्पर्कं कृतवताम्
अयमेव प्रथमो वर्तते । गुप्तचराणां सत्यपि महीयसि बाधे, कूकानां संख्या प्रत्यहं
वर्धते स्म, यत् १८७१तमे वर्षे सा ४,३०,०००मिता आसीत् । कृत्स्ने पञ्जाबराज्ये
रणशङ्खं ध्माययन्ती क्रान्तिसेनेयं बहुषु स्थलेषु आङ्ग्लेयान् मर्दयामास च ।
अन्ततः आङ्ग्लेयाः स्वसहजेन छद्मना रामसिंहं निबद्ध्य बर्मायाः रङ्गून्-कारायां न्यवेशयन्
। प्रायः चतुर्दश वर्षाणि दुःसहं कारावासम् अनुभूय १८८५तमे वर्षे लोकान्तरं जगाम
सद्गुरुरामसिंहः । कूकापथस्य बहवो वीराः निष्कारणं सर्वसमक्षमेव व्यापादिताः निर्दयैराङ्ग्लेयैः
। एतेषां महात्मनां वीरगाथाः जानपदगीतात्मना परिणताः अधुनापि पञ्जाबजनतायाः
रसनाङ्गणे नरीनृतति ।
तान् महात्मनो
वयमपि स्मरेम नमेम च ।
कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।
संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।
No comments:
Post a Comment