Wednesday 2 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् लेखः ३. दक्षिणकन्नडस्य गान्धीः - कार्नाडु-सदाशिवरायः

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्
लेखः ३. दक्षिणकन्नडस्य गान्धीः - कार्नाडु-सदाशिवरायः

महात्मा गान्धीजीः कर्णाटकराज्यस्य दक्षिणकन्नडजनपदस्य कार्नाडुनामके प्रदेशे अजायत । ’अरे! धिक् त्वां मूर्खशिखामणिम्!’ इति मा वोचत ! यतो मया प्रस्तूयमानोऽयं महान् देशभक्तः दक्षिणकन्नडस्य गान्धीः इत्येव विख्यातोऽस्ति । एवम्! सोऽयं महान् देशभक्तो वर्तते तत्रभवान् कार्नाडु-सदाशिवरायः यश्च मङ्गळूरुनगरं स्वकार्यक्षेत्रं कृत्वा स्वातन्त्र्यसङ्ग्रामे अविरतं भागम् अग्रहीत् । तदीयं गृहं सङ्ग्रामस्य मन्त्रालोचनस्थानम् आसीत् । महात्मा गान्धीः, चित्तरञ्जनदासः, राजगोपालाचारी, सरोजिनी नाय्डु चेत्यादीनां वसतिगृहमप्यासीत् तदालयः । यदा देशे सैन्धवसत्याग्रहः प्रारब्धः तदासौ अङ्कोलां प्रति गत्वा चत्वारि दिनानि तत्र उषित्वा च तत्रत्यानां मार्गदर्शनम् अकार्षीत् । तस्मिन् काले मङ्गळूरुनगरेऽपि सत्याग्रहोऽयम् आरब्ध आसीत् । तत्र प्रत्यागतोऽयं रायः जनैः सादरं स्वागतीकृतः, सत्याग्रहे प्रवृत्तश्च । यदा समुद्राज्जलम् आहृत्य लवणनिष्पादनप्रक्रिया उपक्रान्ता तदैव सदाशिवरायस्य बन्धनं समभूत् । एतद्विषये न्यायालये वादप्रतिवादाश्च प्रवृत्ताः, रायस्य पञ्चदशमासावधिकः कठिनः कारावासो विहितश्च । अनेनासौ कारावासः तिरुचिनापल्ल्यां वेल्लूरौ च अनुभूतः । इत्थं स्वातन्त्र्यसङ्ग्रामे असौ त्रिकृत्वः कारावासम् अन्वभूत् । राष्ट्रकार्यार्थम् असौ स्वं सर्वस्वमपि विक्रीतम् अकरोत् । अस्मिन् सर्वस्वत्यागविधौ पित्रार्जितं गृहमपि परकीयं सञ्जातम् । अन्ते अस्य मातुः पुत्रीणां च भाटकगृहे निवासः आपतितः । अस्य दानशौण्डत्वम् अवलोक्य डा. शिवराम-कारन्तः (असौ कर्णाटके सुप्रसिद्धो विशिष्टः पुरुषः) ’धर्मराज’ इति नाम कृतवान् । आगर्भधनिकोऽप्ययं स्वातन्त्र्यसङ्ग्रामार्थं सर्वस्वं व्ययीकृत्य मरणकाले अकिञ्चनः सञ्जातः आसीत् । सर्वात्मना सरलां जीवनशैलीम् अङ्गीकृतवता तेन पत्न्या शान्ताबाय्या सह बालविधवानां


हरिजनानां च पुनर्वसतिकार्यक्रमाः अपि निर्वर्तिताः । १९३७तमे वर्षे जनवरीमासस्य नवमे दिनाङ्के यदा सः प्राणैर्वियुक्तः तदा शैत्यादात्मानं परित्रातुं योग्यं वस्त्रमात्रमपि नासीत् तस्मिन् !

तमेनं स्वातन्त्र्याय समर्पितसर्वस्वम् अद्य स्मरेम नमेम च ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।

संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः । 

No comments:

Post a Comment