स्वातन्त्र्योत्सवलेखनसरणिः
- कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम्
लेखः १३. पराक्रमपञ्चाननः अल्लूरी सीतारामराजुः ।
उत्तरतेलङ्गाणप्रान्तस्य अल्लूरी सीतारामराजुः कश्चिद्
अनुपमः सेनानीः राष्ट्रभक्तश्च आसीद्, यो हि न केवलं स्वातन्त्र्ययोद्धा, अपि तु पर्वतादिस्थितानाम् आदिवासिकुलानां
सामान्यमानवाधिकारलब्ध्यर्थम् इदम्प्रथमतया कृतप्रवृत्तिकः । अधुना बस्तार् नाम्ना
व्यवह्रियमाणे आन्ध्र-ओरिस्सा-मध्यप्रदेशानां पर्यन्तभागेषु अभिव्याप्ते अरण्ये
वसतः ’चेञ्चु’ इत्याख्यस्य पर्वतवासिकुलस्य स्थानमानसिद्धये युद्ध्वा
आङ्ग्लेयैरमानुषेण विधिना व्यापादितोऽयं सीतारामराजुः १९२४ तमे वत्सरे ।
पिता
महान् देशभक्त आसीदित्यतोऽस्य प्रथमो देशभक्तिपाठो गृहे एव सञ्जातः । बाल्ये कस्मिंश्चित्
प्रसङ्गे आङ्ग्लेयाधिकारिणं नमस्कुर्वाणम् एनं पिता यदा दण्डयामास तदैव इतः परं न
कोऽपि परकीयो नन्तव्य इति पाठोऽनेन शिक्षित आसीत् । माध्यमिकशिक्षाकाल एव
क्रान्तिपथगामिनां सद्विचारैः प्रभावित एषः तदैव राष्ट्रस्य स्वातन्त्र्यार्थं कृतपरिकरबन्धः
समभूत् । महाविद्यालयशिक्षणात् परं राष्ट्रं सञ्चरन् नैकेषां क्रान्तिवीराणां
परिचयं प्राप्नोत् । यदा राष्ट्रपर्यटनं सम्पूर्णं तदा स्वकर्तव्यविषये तस्य
धीर्निश्चिता आसीत् । संन्यासं स्वीकृत्य जनानां राष्ट्रस्य च सेवायै जीवनं
विनियोजनीयमिति द्रढीयांसं सङ्कल्पं स कृत्वा नानाग्रन्थान् अध्यैत,
धनुरादीर्विद्याः अशिक्षत च । तस्मिन्नेव समये आङ्ग्लेयैः आदिवासिनां प्रतिकूलतया कृतः
कश्चन नियमः एतं तान् विरुद्ध्य सङ्ग्रामाय प्रावर्तयत् । आङ्ग्लेयान्
प्रतिरोद्धुम् आदिवासिनः सङ्घटयन्नेषः तेषु स्थिताः नरबलिप्रमुखाः अहितपद्धतीः
निवारयामास । तान् शिक्षितांश्चकार मद्यव्यसनतो मुमोच च । एवं नानावर्त्मभिः मन्यंनामके
प्रदेशे स्थितं ’कोया’ ’चञ्चु’ चेत्येतदादिवासिकुलद्वयं रक्षन्नेषः तेषाम्
आराध्यदेवतैव सञ्जातः । एतेषां हिताय अस्याग्रणीत्वे सञ्जातं महदान्दोलनं Rampa
Rebellion इति नाम्ना सुप्रसिद्धमस्ति आन्ध्रेतिहासे ।
ब्रिटष्साम्राज्यस्य दुःशासनं दमयितुं महतीं सेनां सङ्घटयन्नेष तस्य निद्रानाशी
सम्पन्नः । उपक्रमेऽस्मिन्ननेन नैके सहायाः सम्प्राप्ताः ये च पराक्रमेण पञ्चाननमप्यतिशेरते
स्म । अनेन सङ्ग्रामेण बहवः पर्वतवासिनः स्वातन्त्र्यं लेभिरे, किन्तु बहवो मृतिम्
उपगता अपि । अन्ततस्तमेनं न्याय्येन मार्गेण नियन्त्रयितुं न पारयेमेति विदित्वा
सन्धानार्थमाहूय, कुटिलतया निबबन्धुः आङ्ग्लेयाः । बन्दीभूतं तं वृक्षे निबद्ध्य लुण्ठाक
इति यदा गर्हयन्ति स्म आङ्ग्लेयाः तदैषः सरोषं ’छद्मना भारतस्य लुण्ठाका यूयमेव
इति आक्रोशन्नुदजूगुषत् – ’युष्माभिरेको राजुर्बध्येत हन्येत वा । किन्तु न वन्ध्या
मे भारतमाता । रत्नगर्भायाः तस्याः मादृक्षा वीरपुत्राः यदा शतश उत्पत्स्यन्ते तदा
युष्माभिर्निर्गन्तव्यमेव भविष्यति’ इति । अन्ते चासौ १९२४तम वत्सरे मेमासस्य
सप्तमे दिनाङ्के पञ्चतां प्रापितः ।
’सीतारामराजुः यद्यन्यस्मिन् कस्मिंश्चिद् देशे अभविष्यत्
तर्हि इतोऽप्यतिशयितं गौरवम् अलप्स्यत’ इत्युक्तमस्ति नेताजी-सुभासचन्द्रबोस्-वर्येण
। सत्यम्, न केवलं राजौ, बहुषु स्वातन्त्र्ययोद्धृषु समन्वेति वाणीयं येषां विषये
राष्ट्रमिदं न पूर्णतया कृतज्ञभावम् आवहति । तदिदं महद् दौर्भाग्यं वर्तते अस्य
राष्ट्रस्य ।
कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।
संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।
No comments:
Post a Comment