Tuesday 15 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् । लेखः १४. तमिळुभूमेः स्मरणीयसत्त्वः – वीरपाण्ड्यः कट्टबोम्मन् ।


स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् ।
लेखः १४. तमिळुभूमेः स्मरणीयसत्त्वः – वीरपाण्ड्यः कट्टबोम्मन्

ईस्ट् इण्डिया कम्पनी भारतं समागत्य मन्दमन्दं यदात्र स्वमाधिपत्यं प्रतिष्ठापयति स्म तदैव तान् स्वरूपतो विज्ञाय विरुद्धवत्सु, तेषां निवर्तनाय प्रयत्तवत्सु च अन्यतमो वर्तते मातृभूमेर्महान् आराधको वीरपाण्ड्यः कट्टबोम्मन् । यदा आङ्ग्लेयाः भारते स्वस्थानं दृढम् अकार्षुः ततः क्रमेण अल्पबलान् राज्ञः पीडयन्तः, तेभ्योऽधिकं करम् आददानाश्च स्वमाधिपत्यं प्रवर्धयन्ति स्म । तदीयं बलं सोढुम् अनीशा बहवो राजानस्तदधीनशासनाः सञ्जाताः । किन्तु साम्प्रतिकस्य तमिळुनाडुराज्यस्य पाञ्चालङ्कुरुच्चिप्रान्तस्य कश्चिद्धीरस्तदिदं पराधीनत्वं न मनागपि ऊरीचकार, यश्च वर्तते वीरपाण्ड्यः कट्टबोम्मन् । तस्मिन् काले तस्य प्रान्तस्य आङ्ग्लेयाधिकारी आसीत् म्याक्स्वेल् इत्याख्यः । तेन करार्पणार्थम् असकृत् कृतमपि आदेशं धिक्चकार वीरपाण्ड्यः । ’करो न दत्तश्चेद् योद्धव्यम्’ इति भाययितुं यतमानं तं सधैर्यं प्रत्युवाच वीरपाण्ढ्यो यथा – ’पुत्राः स्मो वयं भूमिदेव्याः । अस्या गौरवाय प्राणान् अपि दद्याम न तु विदेशीयेभ्यः करम् ।’ इति ।

इत्थम् आह्वयमानं वीरपाण्ड्यं परिभावयितुम् आचक्राम महत् सैन्यम् आङ्ग्लेयानाम् । १७९२तः १७९८पर्यन्तं षड् वर्षाणि प्रावृत्तं प्रधनम् । अनेन युद्धेन हानिरेव नः इति उपदिशतः स्वजनान् ’पराधीनत्वं न जात्वङ्गीकार्यम्’ इति धीरैर्वचोभिः स्वयं प्रतिबोधयामास वीरपाण्ड्यः । इत्थं जाज्वल्यमानम् अनलम् इव तं सोढुम् अशक्नुवन्त आङ्ग्लेयाः कौटिल्येन सन्धानाय आह्वयन् । तदिदं कौटिल्यं जानन् वीरपाण्ड्यः तत्र यात्वा बन्दीकर्तुम् ईहमानम् आङ्ग्लाधिकारिणम् एव हत्वा प्रत्यायातः ।

१७९९तमे वर्षे सेप्टेम्बर् ५ दिनाङ्के ब्रिटिष्सैन्यं पाञ्चालङ्कुरुच्चेरुपरि पुनरप्याचक्राम । बलिष्ठया तया सेनया नियुद्ध्य पराजीयमानो वीरपाण्ड्यो बलं सञ्चित्य पुनर्योत्स्ये इति निश्चित्य ततः पलायितः । किन्तु आङ्ग्लेयाः कुतन्त्रेण तस्य कञ्चित् सुहृदं प्रभूतेन वित्तेन प्रलोभ्य ततस्तदीयं बन्धनम् अकारयन् । सन्निहितम् अपि मरणम् अपरिगणयन् आङ्ग्लान् उद्दिश्य वीरपाण्ड्यो जगर्ज – ’अन्याय्येनास्मदीयां मेदिनीं वशीकृतवतां भवताम् इतो निवर्तनम् अचिरादेव भविता । नाहं युष्मद्वशवर्ती भविष्यामि । तदनुष्ठीयतां यथेष्टम् ।’ इति । एवम् अनवनतशिरस्कः सः तदनुयायिनश्च १७९९, अक्टोबर् षोडशे दिनाङ्के सर्वसम्मुखे पाशम् आरोपिताः ।

इत्थम् आङ्ग्लशासनस्य अवसानं मातृभूमेः स्वतन्त्रतां च अभिलषन् तदर्थं प्राणानपि समर्पयन् वीरपाण्ड्यः कट्टबोम्मन् पश्चात् सम्भूतस्य महास्वातन्त्र्यसमरस्य आमुखम् अलिखत् । तदीयोऽभिलाषः सम्प्रति साकारतां सम्प्राप्तोऽस्ति । किन्तु, तस्य तादृशानां बहूनां योधानां च स्मृतिः प्रायेण विलुप्तास्ति ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।

संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

No comments:

Post a Comment